वर्षं तद्भारतं नाम भारती यत्र सन्ततिः
----------- मार्कण्डेय शारदेयः (पटना, बिहारस्थः) -----------
विष्णुपुराणे पराशरोक्तिः-
‘गायन्ति देवाः किल गीतकानि
धन्यास्तु ते भारत-भूमिभागे।
स्वर्गापवर्गास्पद- मार्गभूते
भवन्ति भूयः पुरुषाः सुरत्वात्’।।(2.3.24)
सुराः गायन्ति न वा, परन्तु देशो∙यं कर्मवादी।अत्र अवश्यं भोक्तव्यं कर्मफलं विदित्वा को∙पि कर्मच्युतः न भवितुम् इच्छति।श्रुति-स्मृति-विहितं कर्म एव अत्र धर्मः।कर्मणः विविधं रूपं ज्ञात्वा सर्वे भारतीयाः तस्मिन् निरताः।अस्य भूभागस्य प्रकृतिः अपि मनोहरा।षड् ऋतवः क्रमेण आगत्य सर्वत्र अलङ्कुर्वन्ति।यद्यपि सर्वः भूभागः न समानः, तथापि साधुवत् ते समत्वस्य अर्पणे तत्पराः।अत्रत्य भूमिः क्वचित् असमाना तु क्वचित् समाना, क्वचित् बालुकामयी तु क्वचित् प्रस्तरमयी, क्वचित् कृषियोग्या उर्वरा तु क्वचित् अनुर्वरा मरुः, क्वचित् उच्चैः उच्चैः पर्वतशृंखला तु क्वचित् नीचैः नीचैः गर्ताः।ईदृशी प्राकृतिकी निर्मितिः अस्य देशस्य।सर्वं समाहृत्य अस्य प्राकृतिक- विभागाः चत्वारः-हिमालयः, गङ्गायाः समस्थली, मरुप्रदेशः, दक्षिणो∙न्तरीपश्च।
एतावतापि अत्रत्य सर्वे निवासिनः प्रायेण एकया संस्कृत्या एव संसिक्ताः, या वैदिकीति कथ्यते।भौगोलिकेन कारणेन भोजने पाने, भाषा-वस्त्रादिषु, रीत्याम्, रङ्ग-रूपे अपि काचित् भिन्नता स्यात्, परन्तु कर्मवादे आत्म-परमात्मवादे, लोक-परलोक-विचारे, पाप-पुण्ययोः फलचिन्तायां च सर्वे एकेनैव सूत्रेण सम्बद्धा।ऋषिभिः निर्दिष्टया पद्धत्या जीवन-चर्या उपासनाविधिः अपि भन्नापि अभिन्नैव।उत्तरतः दक्षिणं यावत्, पूर्वतः पश्चिमं यावत् प्रायेण समाना आचाराः।
अस्य भूभागस्य नाम कथं भारतम् इति प्रश्ने केषांचित् मतेन दुष्यन्तपुत्रस्य भरतस्य नाम्ना जातं तु केषांचित् मतेन ऋषभदेवस्य पुत्रस्य भरतस्य नाम्ना इति मतम्।उभौ अपि महन्तौ आस्ताम्, अतः येन केनापि अस्य देशस्य आख्या जाता, न अधिकं विचारणीया।मुख्यम् इदम् अपि यत् देशो∙यं ज्ञानरूपण्यां भायां भासि वा रतः अतः भारतमिति।
श्रीविष्णु-पुराणे कथितम्-
‘उत्तरं यत् समुद्रस्य हिमाद्रेः चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः’।।(2.3.1)
अत्र भारतदेशस्य सन्ततिः भारती कथिता।अर्थात्, अस्मिन् भूभागे येषां जन्म ते भारत्यः।‘माता भूमिः पुत्रो∙हं पृथिव्याः’ इति वेदवाक्यात्।अत्रत्यां सिन्धु नदीम् अभिज्ञान-साधनं मत्वा अस्याः नद्याः नाम्ना एव वैदेशिकैः एतत्देशं हिन्द, हिन्दुस्थानम्, हिन्दुस्तानम्, इण्डिया इति नवं नवं नामकरणं कृतम्।विष्णुपुराणे ये भारत्यः कथिताः, ते एव भारतीयाः, हिन्दवः, इण्डियन इति ख्याताः।मन्ये, उक्तपुराणस्य रचनाकाले ईसाई, मुसलमान आदि मतावलम्बिनां जन्म एव न आसीत्, पुनः अत्रागमनं कुतः? इदानीं देशोद्भवानां विदेशोद्भवानां च विविध-मतावलम्बिनां निवासभूमिः इयं भारतभूमिः, अतः सर्वे भारत्यः, भारतीयाः, हिन्दवः, इण्डियनाः च सन्ति।
यद्यपि हिन्दू इति शब्दस्य प्रयोगः वैदेशिकैः पुराकालीनानाम् अस्मिन् देशे वासिनां कृते एव कृतः। परन्तु अत्र न को∙पि हिन्दू इति नामको धर्मः, न जातिश्च।अत्र तु सनातन, जैन, बौद्ध इत्येते वैदेशिकानाम् आगमनस्य आक्रमणस्य च पूर्वम् आसन्।तेषामपि अधिकाः वेदानुयायिनः सनातनाख्याः वैदिकाः एव आसन्।ये कर्मरूपया वर्णव्यवस्थया विभक्ता आसन्।उक्तपुराणम् अपि कथयति-
‘ब्राह्मणाः क्षत्रियाः वैश्या मध्ये शूद्राश्च भागशः।
इज्यायुध-वाणिज्याद्यैः वर्तयन्तो व्यवस्थिताः’।।(2.3.9)
वैदेशिकैः पुराकालीनानां वासिनां नाम हिन्दू इति अभिहितम्, तेन रूढित्वात् इदम् अधिकं प्रसिद्धिं गतम्।अस्मिन् नाम्नि केवलं वैदेशिकैः नामकरणात् एव नहि, अपितु आक्रान्तृभिः पारतन्त्र्ये कृते शासक-शासितयोः विभेदीकरणे∙पि।अधुना ते आत्मानं हिन्दुस्तानी इण्डियन वा मान्यन्ते, परन्तु हिन्दू सम्बोधनात् आत्मानं दूरं कुर्वन्तः सन्ति।ऊर्दूकविना ‘हिन्दी हैं वतन है, हिन्दोस्ताँ हमारा’ इत्यत्र विभेदात् एव ‘हिन्दू हैं वतन है, हिन्दोस्ताँ हमारा’ न कथितम्।तेषां कृते अद्यापि ते एव हिन्दवः, येषां नामनिर्धारणं प्राचीनैः मुस्लिम-आक्रान्तृभिः कृतम्।अस्मिन् पक्षे न केवलं तेषां दोषः, सनातनिनामपि।वैदेशिकैः दत्तं फारसीभाषिकं नाम पुरस्कारवत् अलङ्कारवत् च वैदिकैः प्रसन्नमनसा स्वीकृत्य गर्वानुभूतिः कृता।इत्थमेव नहि, अधुनापि एते सर्वे हिन्दू नाम्ना आत्मनः परिचयं ददति।श्लोकं च निर्माय हिन्दू नाम्नः सिद्धिं दर्शयन्ति।कैचित्तु वैदिकं पौराणिकं च कथयित्वा आत्मनः उपहासं कारयन्ति।
अस्तु, यदि विभेदः वज्रलेपो जातः तु का विचारणा।अङ्गे जाते व्रणे शल्यक्रियया न एकरूपताम् अधिगन्तुं समर्थः को∙पि।अतः एतत्विषये व्याख्यानं व्यर्थमिति।किन्तु देशो∙यं सर्वेषां नागरिकाणाम्।सर्वे अस्यै भूमेः सन्तत्यः, अतः भ्रातृभावेन सर्वैः उषित्वा अस्य उत्त्थाने, पारस्परिके प्रेमवर्धने प्रयत्नो विधेयः।
अयं देशः त्याग-परायणानाम् ऋषीणां मुनीनां राजर्षीणां कृषकाणां पशुपालकानां व्यवसायिनां सेवारतानां च।सर्वेषां योगदानेन अस्य उत्थानं सम्भवति।अन्ये देशाः भोगभूमयः, अयं देशः कर्मभूमिः इति कथितः।अतः अत्र संयतस्य जीवनस्य उत्तमस्य विचारस्यैव प्रतिष्ठा।पुरा ज्ञानगुरुः, स्वर्णपक्षी आसीत्, पारतन्त्र्यात् दुरावस्थां गतः।पुनः उत्थानं प्रयत्नशीलः।अस्माकं योगदानेन अयं पुनः शीर्षस्थो भविष्यति।अस्य पार्श्वे प्रभूता प्राकृतिकी सम्पदा अस्ति, कर्मतत्पराः युवानः सन्ति, किं न अस्ति अस्य पार्श्वे! केवलं सुयोग्याः सूत्रधाराः देशहितैषिणः स्युः, तु शीघ्रम् अयं विश्वे सर्वोत्तमं स्थानं प्राप्तुं समर्थो भविष्यतीति।
(व्याख्यातः)हमारे खबरों को शेयर करना न भूलें| हमारे यूटूब चैनल से अवश्य जुड़ें https://www.youtube.com/divyarashminews https://www.facebook.com/divyarashmimag
0 टिप्पणियाँ
दिव्य रश्मि की खबरों को प्राप्त करने के लिए हमारे खबरों को लाइक ओर पोर्टल को सब्सक्राइब करना ना भूले| दिव्य रश्मि समाचार यूट्यूब पर हमारे चैनल Divya Rashmi News को लाईक करें |
खबरों के लिए एवं जुड़ने के लिए सम्पर्क करें contact@divyarashmi.com